विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् ,विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम् ,विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः॥